पौरवसमनसिजसूत्र
Манасиджа сутра
पौरवसमनसिजसूत्रम्
श्रीपुरूरवोमुनिना रचितम्
अथातः पौरूरवसं मनसिजसूत्रं व्याख्यास्यामः॥१॥
तच्छास्त्रपरिज्ञाने युवावस्थायाः प्रयोजकत्वात्॥ २॥
दर्पकोद्बोधने श्यामाधरसुधाप्राशनमौपदेशिकाङ्गम्॥ ३॥
अङ्गचतुष्टयोपलक्षितो रत्यानन्दः॥ ४॥
उरसि कुचाभ्यां संश्लेषणं द्वितीयमङ्गम्॥ ५॥
दोष्भ्यां कुचयोरुपमर्दनं तृतीयमङ्गम् ॥ ६॥
जतुकाष्ठवत्संश्लेषणं तृतीयमङ्गम् ॥ ७॥ स्
स्वाधिष्ठानसुधाया अनुप्राशनं परमानन्दकारः ॥ ८॥
अनन्यजसद्मनि साकल्येनोदञ्जिप्रवेशः ब्रह्मानन्दस्योपादानकारणम् ॥ ९॥
उदञ्जिसामिप्रवेशः लेखर्षभानन्दे प्रयोजकीभूतो हेतुः ॥ १०॥
अञ्जिस्थाने अनुक्षणव्याघातस्य साधकतमं दार्ढ्यं परमकारणम् ॥ ११॥
सङ्कचितस्वाधिस्थानस्य भेदनकार्यजन्यमानन्दमवाङ्मनसगोचरम् ॥१२॥
सर्वगृदिव्याघातः चिदाभासस्यानुदर्शने परमकारणम् ॥ १३॥
दर्पकजन्यस्याभ्यर्हितत्वे एकतल्पारोहणस्यात्यावश्यकत्वात् ॥ १४॥
युवत्यभिलाषा रत्युत्साहवर्धने हेतुः ॥ १५॥
पुरुषाभिलाषायाश्चानुषङ्गिकत्वात् ॥ १६॥
औपदेशिकस्यानङ्गसङ्ग्रामस्य युवतीनामानन्दतृप्तौ प्रयोजकत्वाभावात् ॥ १७॥ द्
द्वितीयाहवे तु तत्सत्त्वात् ॥ १८॥
पुरुषाणां तद्वैपरीत्यात् ॥ १९॥
आलिङ्गनकुचधारणादिरिव नीवीशयस्थापनस्याप्यभिमतत्वात स्मरोद्दीपने असाधारणकारणरूपत्वात् ॥ २०॥
व्यानतादिप्रबन्धस्य युवावस्थायाः प्रयोजकत्वात् ॥ २१॥
सर्दगृदिव्याघातजन्यस्यानन्दस्यानुभूतेरुभयनिष्ठत्वं रसानन्दानुभूतेरुभयत्र संश्लिष्टत्वात् ॥ २२॥
सेचनकालः सायुज्यानन्दस्यानुभवदर्शने प्रयोजकीभूतो हेतुः ॥ २३॥
उरोजसङ्ग्रहणे तद्गतकाठिन्यस्य प्रयोजकत्वम् ॥ २४॥
काठिन्यस्योपादानकारणरूपत्वात् ॥ २५॥
शम्बरारेरायोधने उदञ्जिधार्ष्ट्यप्रयोजकत्वम् ॥ २६॥
धातुसञ्चयोद्रेकस्यापि तथात्वमुभयोः कार्यकारणरूपत्वात् ॥ २७॥
योनिमुखे उदञ्जिमुखप्रवेशस्याचिरेण उरोजोद्भवे परमकारणत्वम् ॥ २८॥
प्रकृतिविकारस्य लोहितोपचयः रत्युत्साहवर्धने हेतुः ॥२९॥
उभयोरुपचयः मन्मथसङ्गरस्य रुच्युत्पादकत्वे हेतुः ॥ ३०॥
अधरामृतास्वादनं तु औपदेशिकरसोत्पत्तेर्निदानम् ॥ ३१॥
रदने दशनं तु सन्निहितरसाविर्भावस्य कारणम् ॥ ३२॥
संश्लेषणस्यापि पूर्वोक्तरसस्यैवावस्थान्तरत्वम् ॥ ३३॥
जतुकाष्ठवत् संश्लेषेऽपि चरमरसस्यौत्सर्गिकत्वेन प्राधान्यम् ॥ ३४॥
सेचनदिष्टस्योपरिष्टाद्वर्तमानस्यानेहसः विरागोत्पादने हेतुकारणत्वम् ॥ ३५॥
मुहुर्तकालस्योपरिष्टाद्वर्तमानस्य समयस्योत्पन्नविरागस्य प्रध्वंसनद्वारा रत्युत्साहशक्तौ परमकारणम् ॥ ३६॥
निर्लोमयोनिसम्भेदस्य पुरुषशक्तेः परमकारणत्वम् ॥ ३७॥
पुरुषशक्तेरभावे सम्भेदं कर्तुमशक्यत्वात् ॥ ३८॥
पञ्चशरजन्ये युवत्यनुमतेः प्रयोजकत्वात् ॥ ३९॥
अनुमत्यभावे जन्यावसानस्यार्थाक्षिप्तत्वात् ॥ ४०॥
सहस्यदिष्टे दर्पकजन्यस्यातीवेप्सितत्वम् ॥४१॥
कुसुमसमयेऽपि तथात्वम् ॥४२॥
रोहिताश्वस्याधिष्ठानेऽङ्गप्रधानसाकल्येनानन्यजसङ्गरे यथेच्छमभ्यनुज्ञासम्प्रदानम् ॥ ४३॥
जैवातृकाधिष्ठानेऽपि तथात्वम् ॥ ४४॥
अनीचकाशे काले बाह्यतन्त्रस्यैव प्राधान्यम् ॥४५॥
उष्मकस्यानेहसि शरघस्रान्तरिते झषकेतोरायोधनस्याभ्यनुज्ञानम् ॥४६॥
प्रावृषि पङ्किसङ्ख्याविच्छेदेन रतिजन्यस्योपदेशः ॥ ४७॥
अतिश्यामाभिः सह सम्प्रयोगो जनोलोकानन्दानुभवेऽनुशासनवाक्यस्योपदेशः ॥४८॥
तपोलोकस्यानन्दानुभवे पूर्वरू पपूर्णावस्थायाः नियतकारणत्वम् ॥ ४९॥
सर्वानन्दसमूहेभ्य उत्पन्नस्यानिर्वचनीयानन्दस्यानुभवे उपश्यामासम्प्रयोगः ॥५०॥
अतिक्रान्तावस्थया सह सम्प्रयोगो सामान्यानन्दस्यावभासकः ॥ ५१॥
प्रवेष्टसङ्ग्रहणात्तत्पुरस्ताद्यथेच्छं रतिविलासस्यनुशासनेऽधिकारकत्वम् ॥ ५२॥
दिष्टप्रकृतिविकारस्य प्रवेष्टसङ्ग्रहणं रतितन्त्रावसाने प्रयोजकीभूतो हेतुः ॥ ५३॥